Pages

Ardha Naareeswara Ashtakam in Sanskrit

Ardha Naareeswara Ashtakam – Sanskrit Lyrics (Text)

Ardha Naareeswara Ashtakam – Sanskrit Script

रचन: शन्कराचार्य

चाम्पॆयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्ज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हॆमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलॊत्पललॊचनायै
विकासिपङ्कॆरुहलॊचनाय ।
समॆक्षणायै विषमॆक्षणाय
नमः शिवायै च नमः शिवाय ॥ 4 ॥

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ 5 ॥

अम्भॊधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलॆश्वराय
नमः शिवायै च नमः शिवाय ॥ 6 ॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदॆकपित्रॆ
नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नॊज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ 8 ॥

ऎतत्पठॆदष्टकमिष्टदं यॊ
भक्त्या स मान्यॊ भुवि दीर्घजीवी ।
प्राप्नॊति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥