Pages

Nakshatra Suktam (Nakshatreshti) in Sanskrit

Nakshatra Suktam (Nakshatreshti) – Sanskrit Lyrics (Text)

Nakshatra Suktam (Nakshatreshti) – Sanskrit Script

तैत्तिरीय ब्रह्मणम् । अष्टकम् – 3 प्रश्नः – 1
तैत्तिरीय संहिताः । काण्ड 3 प्रपाठकः – 5 अनुवाकम् – 1

ॐ ॥ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दॆ॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑हॊतन । यस्य॒ भान्ति॑ र॒श्मयॊ॒ यस्य॑ कॆ॒तवः॑ । यस्यॆ॒मा विश्वा॒ भुव॑नानि॒ सर्वा॓ । स कृत्ति॑काभिर॒भिस॒ंवसा॑नः । अ॒ग्निर्नॊ॑ दॆ॒वस्सु॑वि॒तॆ द॑धातु ॥ 1 ॥

प्र॒जाप॑तॆ रॊहि॒णीवॆ॑तु॒ पत्नी॓ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नॊ॑ य॒ज्ञस्य॑ सुवि॒तॆ द॑धातु । यथा॒ जीवॆ॑म श॒रद॒स्सवी॑राः । रॊ॒हि॒णी दॆ॒व्युद॑गात्पु॒रस्ता॓त् । विश्वा॑ रू॒पाणि॑ प्रति॒मॊद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दॆ॒वाना॒मुप॑यातु य॒ज्ञम् ॥ 2 ॥

सॊमॊ॒ राजा॑ मृगशी॒र्॒षॆण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानॊ बहु॒धा जनॆ॑षु । रॆतः॑ प्र॒जां यज॑मानॆ दधातु । यत्तॆ॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा॓म् । तस्मै॑ तॆ सॊम ह॒विषा॑ विधॆम । शन्न॑ ऎधि द्वि॒पदॆ॒ शं चतु॑ष्पदॆ ॥ 3 ॥

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न ऎति । श्रॆष्ठॊ॑ दॆ॒वानां॒ पति॑रघ्नि॒याना॓म् । नक्ष॑त्रमस्य ह॒विषा॑ विधॆम । मा नः॑ प्र॒जाग्ं री॑रिष॒न्मॊत वी॒रान् । हॆ॒ति रु॒द्रस्य॒ परि॑णॊ वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ । प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा॓ । अपा॒घशग्ं॑ सन्नुदता॒मरा॑तिम् । ॥ 4॥

पुन॑र्नॊ दॆ॒व्यदि॑तिस्पृणॊतु । पुन॑र्वसूनः॒ पुन॒रॆतां॓ य॒ज्ञम् । पुन॑र्नॊ दॆ॒वा अ॒भिय॑न्तु॒ सर्वॆ॓ । पुनः॑ पुनर्वॊ ह॒विषा॑ यजामः । ऎ॒वा न दॆ॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दॆ॒वाना॒-मप्यॆ॑तु॒ पाथः॑ ॥ 5॥

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि सम्ब॑भूव । श्रॆष्ठॊ॑ दॆ॒वानां॒ पृत॑नासुजि॒ष्णुः । दि॒शॊ‌உनु॒ सर्वा॒ अभ॑यन्नॊ अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तॊ नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधॆ॑ता॒न्द्वॆषॊ॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ 6 ॥

इ॒दग्ं स॒र्पॆभ्यॊ॑ ह॒विर॑स्तु॒ जुष्टम्॓ । आ॒श्रॆ॒षा यॆषा॑मनु॒यन्ति॒ चॆतः॑ । यॆ अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । तॆ न॑स्स॒र्पासॊ॒ हव॒माग॑मिष्ठाः । यॆ रॊ॑च॒नॆ सूर्य॒स्यापि॑ स॒र्पाः । यॆ दिवं॑ दॆ॒वीमनु॑स॒ञ्चर॑न्ति । यॆषा॑मश्रॆ॒षा अ॑नु॒यन्ति॒ कामम्॓ । तॆभ्य॑स्स॒र्पॆभ्यॊ॒ मधु॑मज्जुहॊमि ॥ 7 ॥

उप॑हूताः पि॒तरॊ॒ यॆ म॒घासु॑ । मनॊ॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । तॆ नॊ॒ नक्ष॑त्रॆ॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् । यॆ अ॑ग्निद॒ग्धा यॆ‌உन॑ग्निदग्धाः । यॆ॑‌உमुल्लॊ॒कं पि॒तरः॑ क्षि॒यन्ति॑ । याग्‍श्च॑ वि॒द्मयाग्म् उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषन्ताम् ॥ 8॥

गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन् वरुणमित्र॒ चारु॑ । तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ संवि॑शॆम । यॆनॆ॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दॆ॒वा अ॑नुस॒ंयन्ति॒ चॆतः॑ । अ॒र्य॒मा राजा॒‌உजर॒स्तु वि॑ष्मान् । फल्गु॑नीनामृष॒भॊ रॊ॑रवीति ॥ 9 ॥

श्रॆष्ठॊ॑ दॆ॒वानां॓ भगवॊ भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑ क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम्॓ । गॊम॒दश्व॑व॒दुप॒सन्नु॑दॆ॒ह । भगॊ॑ह दा॒ता भग इत्प्र॑दा॒ता । भगॊ॑ दॆ॒वीः फल्गु॑नी॒रावि॑वॆश । भग॒स्यॆत्तं प्र॑स॒वं ग॑मॆम । यत्र॑ दॆ॒वैस्स॑ध॒मादं॑ मदॆम । ॥ 10 ॥

आया॒तु दॆ॒वस्स॑वि॒तॊप॑यातु । हि॒र॒ण्ययॆ॑न सु॒वृता॒ रथॆ॑न । वह॒न्॒, हस्तग्ं॑ सुभग्ं॑ विद्म॒नाप॑सम् । प्रयच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ वसी॑यः । दक्षि॑णॆन॒ प्रति॑गृभ्णीम ऎनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑दॆय । यॊ नॊ॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥11 ॥

त्वष्टा॒ नक्ष॑त्रम॒भ्यॆ॑ति चि॒त्राम् । सु॒भग्ं स॑संयुव॒तिग्ं राच॑मानाम् । नि॒वॆ॒शय॑न्न॒मृता॒न्मर्त्याग्॑श्च । रू॒पाणि॑ पि॒ग्॒ंशन् भुव॑नानि॒ विश्वा॓ । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्॓ । तन्नः॑ प्र॒जां वी॒रव॑तीग्ं सनॊतु । गॊभि॑र्नॊ॒ अश्वै॒स्सम॑नक्तु यज्ञम् ॥ 12 ॥

वा॒युर्नक्ष॑त्रम॒भ्यॆ॑ति॒ निष्ट्या॓म् । ति॒ग्मशृं॑गॊ वृष॒भॊ रॊरु॑वाणः । स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा॓ । अप॒ द्वॆषाग्ं॑सि नुदता॒मरा॑तीः । तन्नॊ॑ वा॒यस्तदु॒ निष्ट्या॑ शृणॊतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्॓ । तन्नॊ॑ दॆ॒वासॊ॒ अनु॑जानन्तु॒ कामम्॓ । यथा॒ तरॆ॑म दुरि॒तानि॒ विश्वा॓ ॥ 13 ॥

दू॒रम॒स्मच्छत्र॑वॊ यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खॆ । तन्नॊ॑ दॆ॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात् पु॒रस्ता॒दभ॑यन्नॊ अस्तु । नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खॆ । श्रॆष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गॊ॒पौ । विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑न्नुदता॒मरा॑तिम् । ॥ 14 ॥

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॓त् । उन्म॑ध्य॒तः पौ॓र्णमा॒सी जि॑गाय । तस्यां॓ दॆ॒वा अधि॑स॒ंवस॑न्तः । उ॒त्त॒मॆ नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिः स॒जॊषा॓ः । पौ॒र्ण॒मा॒स्युद॑गा॒च्छॊभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा॓ । उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् ।

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सॊप॒सद्य॑ । मि॒त्रं दॆ॒वं मि॑त्र॒धॆयं॑ नॊ अस्तु । अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धय॑न्तः । श॒तं जी॑वॆम॒ श॒रदः॒ सवी॑राः । चि॒त्रं नक्ष॑त्र॒मुद॑गात्पु॒रस्ता॓त् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ऎ॑ति प॒थिभि॑र्दॆव॒यानै॓ः । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षॆ ॥ 16 ॥

इन्द्रॊ॓ ज्यॆ॒ष्ठामनु॒ नक्ष॑त्रमॆति । यस्मि॑न् वृ॒त्रं वृ॑त्र॒ तूर्यॆ॑ त॒तार॑ । तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरॆम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवॆ॓ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषॆ॓ । इन्द्रा॑य ज्यॆ॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णॊतु॒ यज॑मानाय लॊ॒कम् । ॥ 17 ॥

मूलं॑ प्र॒जां वी॒रव॑तीं विदॆय । परा॓च्यॆतु॒ निरृ॑तिः परा॒चा । गॊभि॒र्नक्ष॑त्रं प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्यम्॓ । अह॑र्नॊ अ॒द्य सु॑वि॒तॆ द॑दातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं वा॒चा निरृ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम्॓ ॥ 18 ॥

या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम्॓ । ता न॒ आपः॒ शग्ग् स्यॊ॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॓स्समु॒द्रिया॓ः । याश्च॑ वैश॒न्तीरुत प्रा॑स॒चीर्याः । यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शग्ग् स्यॊ॒ना भ॑वन्तु ॥19 ॥

तन्नॊ॒ विश्वॆ॒ उप॑ शृण्वन्तु दॆ॒वाः । तद॑षा॒ढा अ॒भिसंय॑न्तु य॒ज्ञम् । तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पॆश॑सः । क॒र्म॒कृत॑स्सु॒कृतॊ॑ वी॒र्या॑वतीः । विश्वा॓न् दॆ॒वान्, ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाः काम॒मुपा॑यन्तु य॒ज्ञम् ॥ 20 ॥

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त्सर्व॑मॆ॒तत् । अ॒मुञ्च॑ लॊ॒कमि॒दमू॑च॒ सर्वम्॓ । तन्नॊ॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानम् । उ॒भौ लॊ॒कौ ब्रह्म॑णा॒ सञ्जि॑तॆ॒मौ । तन्नॊ॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑यॆम । तन्नॊ॑ दॆ॒वासॊ॒ अनु॑जानन्तु॒ कामम्॓ ॥ 21 ॥

शृ॒ण्वन्ति॑ श्रॊ॒णाम॒मृत॑स्य गॊ॒पाम् । पुण्या॑मस्या॒ उप॑शृणॊमि॒ वाचम्॓ । म॒हीं दॆ॒वीं विष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑ मॆनाग्ं ह॒विषा॑ यजामः । त्रॆ॒धा विष्णु॑रुरुगा॒यॊ विच॑क्रमॆ । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् । तच्छ्रॊ॒णैति॒श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लॊकं॒ यज॑मानाय कृण्व॒ती ॥ 22 ॥

अ॒ष्टौ दॆ॒वा वस॑वस्सॊ॒म्यासः॑ । चत॑स्रॊ दॆ॒वीर॒जराः॒ श्रवि॑ष्ठाः । तॆ य॒ज्ञं पा॓न्तु॒ रज॑सः पु॒रस्ता॓त् । स॒ंव॒त्स॒रीण॑म॒मृतग्ग्॑ स्व॒स्ति । य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता॓त् । द॒क्षि॒ण॒तॊ॑‌உभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भि संवि॑शाम । मा नॊ॒ अरा॑तिर॒घश॒ग्ं॒सा‌உगन्न्॑ ॥ 23 ॥

क्ष॒त्रस्य॒ राजा॒ वरु॑णॊ‌உधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दॆ॒वॆभ्यः॑ कृणुतॊ दी॒र्घमायुः॑ । श॒तग्ं स॒हस्रा॑ भॆष॒जानि॑ धत्तः । य॒ज्ञन्नॊ॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नॊ॒ विश्वॆ॑ अ॒भि संय॑न्तु दॆ॒वाः । तन्नॊ॒ नक्ष॑त्रग्ं श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑रद्भॆष॒जानि॑ ॥ 24 ॥

अ॒ज ऎक॑पा॒दुद॑गात्पु॒रस्ता॓त् । विश्वा॑ भू॒तानि॑ प्रति॒ मॊद॑मानः । तस्य॑ दॆ॒वाः प्र॑स॒वं य॑न्ति॒ सर्वॆ॓ । प्रॊ॒ष्ठ॒प॒दासॊ॑ अ॒मृत॑स्य गॊ॒पाः । वि॒भ्राज॑मानस्समिधा॒ न उ॒ग्रः । आ‌உन्तरि॑क्षमरुह॒दग॒न्द्याम् । तग्ं सूर्यं॑ दॆ॒वम॒जमॆक॑पादम् । प्रॊ॒ष्ठ॒प॒दासॊ॒ अनु॑यन्ति॒ सर्वॆ॓ ॥ 25 ॥

अहि॑र्बु॒ध्नियः॒ प्रथ॑मा न ऎति । श्रॆष्ठॊ॑ दॆ॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा॓ह्म॒णास्सॊ॑म॒पास्सॊ॒म्यासः॑ । प्रॊ॒ष्ठ॒प॒दासॊ॑ अ॒भिर॑क्षन्ति॒ सर्वॆ॓ । च॒त्वार॒ ऎक॑म॒भि कर्म॑ दॆ॒वाः । प्रॊ॒ष्ठ॒प॒दा स॒ इति॒ यान्, वद॑न्ति । तॆ बु॒ध्नियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिग्ं॑ रक्षन्ति॒ नम॑सॊप॒सद्य॑ ॥ 26 ॥

पू॒षा रॆ॒वत्यन्वॆ॑ति॒ पन्था॓म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नॊ॒ यानै॒रुप॑यातां य॒ज्ञम् । क्षु॒द्रान् प॒शून् र॑क्षतु रॆ॒वती॑ नः । गावॊ॑ नॊ॒ अश्वा॒ग्॒म् अन्वॆ॑तु पू॒षा । अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजग्ं॑ सनुतां॒ यज॑मानाय य॒ज्ञम् ॥ 27 ॥

तद॒श्विना॑वश्व॒युजॊप॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमॆ॑भि॒रश्वै॓ः । स्वं नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ । मध्वा॒सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । यौ दॆ॒वानां॓ भि॒षजौ॓ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गॊ॒पौ । तौ नक्ष॒त्रं जुजुषा॒णॊप॑याताम् । नमॊ॒‌உश्विभ्यां॓ कृणुमॊ‌உश्व॒युग्भ्या॓म् ॥ 28 ॥

अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मॊ राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् । लॊ॒कस्य॒ राजा॑ मह॒तॊ म॒हान्, हि । सु॒गं नः॒ पन्था॒मभ॑यं कृणॊतु । यस्मि॒न्नक्ष॑त्रॆ य॒म ऎति॒ राजा॓ । यस्मि॑न्नॆनम॒भ्यषिं॑चन्त दॆ॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु ॥ 29 ॥

नि॒वॆश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू॓न्यावॆ॒शय॑न्ती । स॒ह॒स्र॒पॊ॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्वर्च॑सा संविदा॒ना । यत्तॆ॑ दॆ॒वा अद॑धुर्भाग॒धॆय॒ममा॑वास्यॆ स॒ंवस॑न्तॊ महि॒त्वा । सा नॊ॑ य॒ज्ञं पि॑पृहि विश्ववारॆ र॒यिन्नॊ॑ धॆहि सुभगॆ सु॒वीरम्॓ ॥ 30 ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

No comments:

Post a Comment