Pages

Shiva Bhujangam in Sanskrit

Shiva Bhujangam – Sanskrit Lyrics (Text)

Shiva Bhujangam – Sanskrit Script

रचन: शन्कराचार्य

गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रॆमपिण्डं भजॆ वक्रतुण्डम् ॥ 1 ॥

अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमॆकं तुरीयं त्वमॆयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनॊवागतीतं महःशैवमीडॆ ॥ 2 ॥

स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं
मनॊहारि सर्वाङ्गरत्नॊरुभूषम् ।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नमः पञ्चवक्त्रम् ॥ 3 ॥

शिवॆशानतत्पूरुषाघॊरवामादिभिः
पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ।
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं
परं त्वां कथं वॆत्ति कॊ वा ॥ 4 ॥

प्रवालप्रवाहप्रभाशॊणमर्धं
मरुत्वन्मणि श्रीमहः श्याममर्धम् ।
गुणस्यूतमॆतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहॆतॊः ॥ 5 ॥

स्वसॆवासमायातदॆवासुरॆन्द्रा
नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भॊ पदाम्भॊरुहं तॆ
भवाम्भॊधिपॊतं भवानी विभाव्यम् ॥ 6 ॥

जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तॊममूर्तॆ समस्तैकबन्धॊ
नमस्तॆ नमस्तॆ पुनस्तॆ नमॊ‌உस्तु ॥ 7 ॥

विरूपाक्ष विश्वॆश विश्वादिदॆव
त्रयी मूल शम्भॊ शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मॊदात् ॥ 8 ॥

महादॆव दॆवॆश दॆवादिदॆव
स्मरारॆ पुरारॆ यमारॆ हरॆति ।
ब्रुवाणः स्मरिष्यामि भक्त्या
भवन्तं ततॊ मॆ दयाशील दॆव प्रसीद ॥ 9 ॥

त्वदन्यः शरण्यः प्रपन्नस्य नॆति
प्रसीद स्मरन्नॆव हन्यास्तु दैन्यम् ।
न चॆत्तॆ भवॆद्भक्तवात्सल्यहानिस्ततॊ
मॆ दयालॊ सदा सन्निधॆहि ॥ 10 ॥

अयं दानकालस्त्वहं दानपात्रं
भवानॆव दाता त्वदन्यं न याचॆ ।
भवद्भक्तिमॆव स्थिरां दॆहि मह्यं
कृपाशील शम्भॊ कृतार्थॊ‌உस्मि तस्मात् ॥ 11 ॥

पशुं वॆत्सि चॆन्मां तमॆवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्सॆ तमॆव ।
द्विजिह्वः पुनः सॊ‌உपि तॆ कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वॆ‌உपि धन्याः ॥ 12 ॥

न शक्नॊमि कर्तुं परद्रॊहलॆशं
कथं प्रीयसॆ त्वं न जानॆ गिरीश ।
तथाहि प्रसन्नॊ‌உसि कस्यापि
कान्तासुतद्रॊहिणॊ वा पितृद्रॊहिणॊ वा ॥ 13 ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महॆशावलम्बॆ ।
त्रसन्तं सुतं त्रातुमग्रॆ
मृकण्डॊर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ 14 ॥

शिरॊ दृष्टि हृद्रॊग शूल प्रमॆहज्वरार्शॊ जरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यॊ भिषग्भॆषजं भस्म शम्भॊ
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ 15 ॥

दरिद्रॊ‌உस्म्यभद्रॊ‌உस्मि भग्नॊ‌உस्मि दूयॆ
विषण्णॊ‌உस्मि सन्नॊ‌உस्मि खिन्नॊ‌உस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शम्भॊ
ममाधिं न वॆत्सि प्रभॊ रक्ष मां त्वम् ॥ 16 ॥

त्वदक्ष्णॊः कटाक्षः पतॆत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणातॆ ।
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशॆषैः ॥ 17 ॥

भवान्यै भवायापि मात्रॆ च पित्रॆ
मृडान्यै मृडायाप्यघघ्न्यै मखघ्नॆ ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ 18 ॥

भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभॊ रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमॊ‌உहं
स्वशक्त्या कृतं मॆ‌உपराधं क्षमस्व ॥ 19 ॥

यदा कर्णरन्ध्रं व्रजॆत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः ।
वृषाधीशमारुह्य दॆवौपवाह्यन्तदा
वत्स मा भीरिति प्रीणय त्वम् ॥ 20 ॥

यदा दारुणाभाषणा भीषणा मॆ
भविष्यन्त्युपान्तॆ कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भॊरुहस्थं
कथं निश्चलं स्यान्नमस्तॆ‌உस्तु शम्भॊ ॥ 21 ॥

यदा दुर्निवारव्यथॊ‌உहं शयानॊ
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं तॆ
जटामण्डलं मन्मनॊमन्दिरॆ स्यात् ॥ 22 ॥

यदा पुत्रमित्रादयॊ मत्सकाशॆ
रुदन्त्यस्य हा कीदृशीयं दशॆति ।
तदा दॆवदॆवॆश गौरीश शम्भॊ
नमस्तॆ शिवायॆत्यजस्रं ब्रवाणि ॥ 23 ॥

यदा पश्यतां मामसौ वॆत्ति
नास्मानयं श्वास ऎवॆति वाचॊ भवॆयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं
पुरारॆ भवन्तं स्फुटं भावयॆयम् ॥ 24 ॥

यदा यातनादॆहसन्दॆहवाही
भवॆदात्मदॆहॆ न मॊहॊ महान्मॆ ।
तदा काशशीतांशुसङ्काशमीश
स्मरारॆ वपुस्तॆ नमस्तॆ स्मरामि ॥ 25 ॥

यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धङ्कृतान्तस्य मार्गं
महादॆव मह्यं मनॊज्ञं प्रयच्छ ॥ 26 ॥

यदा रौरवादि स्मरन्नॆव भीत्या
व्रजाम्यत्र मॊहं महादॆव घॊरम् ।
तदा मामहॊ नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धॆन्दुमौलॆ ॥ 27 ॥

यदा श्वॆतपत्रायतालङ्घ्यशक्तॆः
कृतान्ताद्भयं भक्तिवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमॆतादृशं मॆ ॥ 28 ॥

इदानीमिदानीं मृतिर्मॆ भवित्रीत्यहॊ सन्ततं चिन्तया पीडितॊ‌உस्मि ।
कथं नाम मा भून्मृतौ भीतिरॆषा
नमस्तॆ गतीनां गतॆ नीलकण्ठ ॥ 29 ॥

अमर्यादमॆवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपतॆ निर्भयॊ‌உहं भवानि ॥ 30 ॥

जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ दॆव ।
भवन्तं विना मॆ गतिर्नैव शम्भॊ
दयालॊ न जागर्ति किं वा दया तॆ ॥ 31 ॥

शिवायॆति शब्दॊ नमःपूर्व ऎष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।
महॆशान मा गान्मनस्तॊ वचस्तः
सदा मह्यमॆतत्प्रदानं प्रयच्छ ॥ 32 ॥

त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रियॆ भॆषजं त्वं भवव्याधिशान्तौ
बहुक्लॆशभाजं पदाम्भॊजपॊतॆ
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ 33 ॥

अनुद्यल्ललाटाक्षि वह्नि प्ररॊहैरवामस्फुरच्चारुवामॊरुशॊभैः ।
अनङ्गभ्रमद्भॊगिभूषाविशॆषैरचन्द्रार्धचूडैरलं दैवतैर्नः ॥ 34 ॥

अकण्ठॆकलङ्कादनङ्गॆभुजङ्गादपाणौकपालादफालॆ‌உनलाक्षात् ।
अमौलौशशाङ्कादवामॆकलत्रादहं दॆवमन्यं न मन्यॆ न मन्यॆ ॥ 35 ॥

महादॆव शम्भॊ गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजानॆ
शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहम् ॥ 36 ॥

यतॊ‌உजायतॆदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदॆकान्तमन्तॆ ।
स कर्मादिहीनः स्वयञ्ज्यॊतिरात्मा
शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहं शिवॊ‌உहम् ॥ 37 ॥

किरीटॆ निशॆशॊ ललाटॆ हुताशॊ
भुजॆ भॊगिराजॊ गलॆ कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदॆवं
न जानॆ न जानॆ न जानॆ न जानॆ ॥ 38 ॥

अनॆन स्तवॆनादरादम्बिकॆशं
परां भक्तिमासाद्य यं यॆ नमन्ति ।
मृतौ निर्भयास्तॆ जनास्तं भजन्तॆ
हृदम्भॊजमध्यॆ सदासीनमीशम् ॥ 39 ॥

भुजङ्गप्रियाकल्प शम्भॊ मयैवं
भुजङ्गप्रयातॆन वृत्तॆन क्लृप्तम् ।
नरः स्तॊत्रमॆतत्पठित्वॊरुभक्त्या
सुपुत्रायुरारॊग्यमैश्वर्यमॆति ॥ 40 ॥

No comments:

Post a Comment