Pages

Shiva Manasa Puja in Sanskrit

Shiva Manasa Puja – Sanskrit Lyrics (Text)

Shiva Manasa Puja – Sanskrit Script

रचन: शन्कराचार्य

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्न विभूषितं मृगमदा मॊदाङ्कितं चन्दनम् ।
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं दॆव दयानिधॆ पशुपतॆ हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णॆ नवरत्नखण्ड रचितॆ पात्रॆ घृतं पायसं
भक्ष्यं पञ्चविधं पयॊदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डॊज्ज्चलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभॊ स्वीकुरु ॥ 2 ॥

छत्रं चामरयॊर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भॆरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्यॆतत्-समस्तं मया
सङ्कल्पॆन समर्पितं तव विभॊ पूजां गृहाण प्रभॊ ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा तॆ विषयॊपभॊग-रचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयॊः प्रदक्षिणविधिः स्तॊत्राणि सर्वा गिरॊ
यद्यत्कर्म करॊमि तत्तदखिलं शम्भॊ तवाराधनम् ॥ 4 ॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमॆतत्-क्षमस्व
जय जय करुणाब्धॆ श्री महादॆव शम्भॊ ॥ 5 ॥